Wednesday, September 11, 2019


नमः सर्वेभ्यः! दीर्घाद्विरामादनन्तरम् ओणमित्युच्यमाने शुभावसरे शास्त्रोक्तं लप्सिकाख्यं मिष्टान्नं प्रस्तूयते। सर्वप्रथमं तु ओणोत्सवशुभकामनाः सर्वेभ्यः।
अद्यतन चर्चाविषयोऽस्ति लप्सिका इति। लप्सिका इति खाद्यविशेषः आचार्यभावमिश्ररचिते भावप्रकाशे वर्णितोऽस्ति। उच्यते -
समितां सर्पिषा भृष्टां शर्करां पयसि क्षिपेत्।
तस्मिन् घनीकृते न्यस्येल्लवङ्गमरिचादिकम्॥
सिद्धैषा लप्सिका ख्याता गुणानस्या वदाम्यहम्।
लप्सिका बृंहणी वृष्या बल्या पित्तानिलापहा।
स्निग्धा श्लेष्मकरी गुर्वी रोचनी तर्पणी परम्॥
(भावप्रकाशः)
          तत्र समिता नाम गोधूमचूर्णम्। अत्र प्रथमायाः पङ्क्त्याः अन्वयः द्विधा कर्तुं शक्यः - समितां सर्पिषा भृष्टां, शर्करां (च) पयसि क्षिपेत् इति, अथवा, समितां, सर्पिषा भृष्टां शर्करां (च) पयसि क्षिपेत् इति। अथवा सर्पिर्भर्जनं समितया शर्करया चापि सह योक्तुं शक्यम्। कथञ्चिदपि सर्पिः गोधूमं शर्करां च एकत्र पचेदिति अर्थः सिद्ध्यत्येव। सर्पिर्गोधूमशर्करमिति पक्तं त्रितयमेतत् पयसि क्षिपेदिति उक्तम्। पयसीति वचनात् पयः एव आदौ शृतं भवेत्, तदनु च सर्पिर्भृष्टसमिताशर्करे पयसि देये इत्यर्थो लभ्यते, न तावत् सर्पर्भृष्टसमिताशर्करयोः उपरि पयः क्षेपणीयम्। पयः, गोधूमः, सर्पिः, शर्करा इति सर्वमेतत् यदा दर्वीचालनात् अनलसंयोगाच्च घनत्वं प्राप्नुयात्, तदा लवङ्गमरिचादीनि द्रव्याणि क्षेपणीयानि। तदेतत् सिद्धं द्रव्यं लप्सिका इत्युच्यते। अपरमस्याः लप्सिकायाः गुणाः उच्यन्ते – बृंहणी वृष्या इत्यादौ। बृंहणी देहवर्धनकरा। वृष्या वृषणयोः हिता। बल्या बलाय हिता। पित्तानिलापहा पित्तवातशमनी। स्निग्धा स्नेहत्वकरी। श्लेष्मकरी कफकृत्। गुर्वी गौरवप्रदा, जरणे कालापेक्षिणी च। रोचनी रुचिप्रदा। तर्पणी परमिति शरीरं मनः इन्द्रियाणि वा तर्पयतीत्यर्थः। सेयमासीत् शास्त्रवर्णिता लप्सिका। 

          अधुना, संप्रति लोके दृश्यमानेषु खाद्यद्रव्येषु लप्सिकया समत्वं कुत्र दृश्यते इति विचारयामश्चेत् तत्र त्रीणि द्रव्याणि संलभ्यन्ते। सर्वप्रथमं तु यत् नाम्नैव समत्वं भजति – लापसीति। गुजरातदेशीयमिदं खाद्यद्रव्यं क्षीरगोधूमशर्करासर्पिषां संयोगरूपमेव भवति, किन्त्वत्र लवङ्गमरिचादीनां स्थाने वातादादिद्रव्याणि (वातादः – almond) युज्यन्ते। भेदस्त्वयं – लापसीति द्रव्यनिर्माणे तु प्रथमं गोधूमशर्करासर्पिषां पाकः क्रियते, तदुपरि च क्षीरं क्षिप्यते, न तावत् क्षीरोपरि इतरद्रव्याणि क्षिप्यन्ते।
          अपरं च तमिलनाडुदेशेऽपि कैश्चित् गोधूमकेसरीति नाम्ना इत्थं पाकः क्रियते इति श्रूयते। अत्र तु सर्वोऽपि पाकविधिः लापसीसमानः एव।
          अन्यच्च केरले गुरुवायूरदेशे एकादश्यां चम्बागोधूमपायसम् इति नाम्ना किञ्चिद्द्रव्यं पच्यते इति श्रुतम्। अत्र तु द्रव्यमिदं पेयं भवति पायसत्वात्, न पुनः खाद्यम्। लप्सिकया साम्यं त्वस्य आदौ क्षीरस्य वह्नौ स्थापने तत्पश्चाच्च गोधूमादीनां स्थापने भवति। तथा च एकादश्यां प्रायः जनाः व्रतान् आचरन्ति। तादृशकाले द्रव्यमिदं दीयते चेत्, नूनमस्मिन् द्रव्ये बृंहणत्वं बलप्रदत्वं स्निग्धतत्वं वृष्यत्वमित्येवमादिगुणाः भवेयुरेवेति अनुमानं कर्तुं शक्नुमः।  एतैश्च गुणैः पुनः पायसोऽयं लप्सिकया साम्यं भजति।
यद्यपि लप्सिका गुर्वी उक्ता भवति, तथापि लवङ्गमरिचादियोगात् गुरुत्वमिदं आधुनिकलापसीवत् प्रगाढं न भवेत्।
क्षीरस्य अग्नौ स्थापने यः क्रमः चर्चितः, तस्य का प्रसक्तिर्भवति? लापसी, गोधूमकेसरी, चम्बागोधूमपायस इति त्रयमेतत् लप्सिकया साम्यं भजन्ति। किञ्च अपरेऽपि केचित् खाद्यविशेषाः लप्सिकया साम्यं स्थापयितुं शक्नुवन्ति। के ते? लप्सिकां पक्तुं प्रयत्नं कृत्वा टिप्पणीं ददतु, तदर्थं प्रतीक्षा क्रियते।
शुभभोजनम्!






Posted by Dhwani On 10:08 PM No comments

0 comments:

Post a Comment

Your thoughts are valuable! :-)

  • RSS
  • Delicious
  • Digg
  • Facebook
  • Twitter
  • Linkedin
  • Youtube

    Blogger news

    Blogroll

    About