Tuesday, January 22, 2019

परिश्रमो मिताहारो भूगतावश्विनीसुतौ।
तावनादृत्य नैवाहं वैद्यमन्यं समाश्रये॥ (ऐतरेयब्राह्मणम्)

             अश्विनीकुमारौ देवभिषजौ उच्येते। देवलोके जायमानानां रोगाणां तैवेव प्रतिबन्धकौ निवारकौ च॥ वैद्यः खलु त्रिकालवेदनाहरणे योग्यः उच्यते। उक्तं हि चरके - "चिकित्सति भिषक् सर्वास्रिकाला वेदना इति॥ (चरकसंहिता - शारीरस्थानम् - १)" तत्र त्रिकालरोगचिकित्सायां युक्तौ परिश्रममिताहारौ भूगतौ अश्विनीसुतौ उच्येते। रोगाणां प्रादुर्भावात् प्राक्कालचिकित्सा, प्रादुर्भावकालचिकित्सा, पश्चाच्चिकित्सा (रोगानुत्पत्त्यर्थम्) इति कर्मत्रयमिदं परिश्रमेण मिताहारेण च मात्रेण साध्या इत्यतः भूगताश्विनीसुतसंज्ञा। तौ भूगतावश्विनीसुतौ परिश्रममिताहाराख्यौ अनादृत्य अन्यवैद्यशरणं नापेक्षितमिति भावः॥
             आहारस्तु सर्वैरेव क्रियते एव। तत्र कथम् आहारः एव वैद्यरूपेण वर्तनीयः चेत् कीदृशः आहारः सद्गुणयुक्तः इति अवगन्तव्यः। तदर्थं च आहारविषये अस्माकं प्राचीनग्रन्थकथनानि अवलोकनीयानि सन्ति, तदनुगुणं च प्रतिदिनपाकविधिः भावनीयः। वैद्यरूपमाहारमवगन्तुं जालस्थानेऽस्मिन् लघुः प्रयत्नः क्रियते। प्रयत्नेऽस्मिन् विदुषां मार्गावबोधनं प्रार्थितम्। अत्र प्रदर्श्यमानाः पाकविधयः प्रायेण ग्रन्थौद्धृताः इत्यतः पाकशालायां तेषां साक्षात्पाकप्रयत्ने निर्धारणीयः, पठितॄणामत्र उत्साहः अपेक्षितः॥ 
॥शम्॥



Posted by Dhwani On 12:13 PM No comments

0 comments:

Post a Comment

Your thoughts are valuable! :-)

  • RSS
  • Delicious
  • Digg
  • Facebook
  • Twitter
  • Linkedin
  • Youtube

    Blogger news

    Blogroll

    About