पाको नाम किम्? भोजनं सर्वेषु हि गृहेषु निर्मीयतेे! किन्तु यत्र श्रेष्ठतया पाकः क्रियते, तत्रैव खलु "नलपाकः, भीमपाकः" इति कीर्त्यते! किं नाम पाकः, स च कतिधा इति संप्रति विचार्यते।
पाक इत्यस्य शब्दकल्पद्रुमाभिहितं निर्वचनमित्थं भवति - "स्थालीमार्ज्जनाद्योदनपरीक्षान्तो व्यापारनिचयः पाकः" इति। भोजनभावनार्थम् अपेक्षितानां वस्तूनां सङ्ग्रहणसंमार्जनकर्तनादिभ्यः सम्यक्पाकलक्षणपरीक्षणं यावत् यद्यत्क्रियते, तत्सर्वं पाकशब्देऽन्तर्भवति। शब्दकल्पानुसारम् ओदन इति शब्दस्यार्थः अन्नं, भक्तमिति चोच्यते। अतः निर्वचनमिदं न केवलं तण्डुलविषयकम्, अपि च सर्वाहारद्रव्यविषयकमिति गृह्यते। अलसेभ्यः इदमुच्यते - मित्रादिभिः कर्तितान् शाकान् स्थाल्यां स्थापयित्वा, अग्निं प्रज्वाल्य दार्व्या आलोडनार्थं चेष्टामात्रकरणेन न तावत् पाचकाख्या भवन्तः इति। 😛
अधुना कतिविधोऽयं पाकः इति दृश्यते। तत्रोच्यते पाकराजेश्वरेण -
भर्ज्जनं तलनं स्वेदः पचनं क्वथनं तथा।
तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः॥
(पाकराजेश्वरः)
1. भर्जनम् -
भर्ज्जनं केवलपात्रे । (पाकराजेश्वरः)
2. तलनम् -
तलनं स्नेहद्रव्ये । (पाकराजेश्वरः)
स्नेह इत्यत्र प्रायोग्रहणे तैलं घृतं क्षीरं च गृह्यन्ते। परं चरकादिनिर्देशात् दधि, वसा, मांसं, मज्जा इत्यादिद्रव्याण्यपि स्नेहाख्यानि एव। परमत्र कानिचन एव उदाहरणत्वेन लिखितानि, आहारपचने नियोज्यत्वात्। अन्यानि स्नेहद्रव्याणि न तथा युज्यन्ते। दध्नः उष्णीकरणं न युक्तं भवति, तस्य स्वास्थ्यहानिकारकत्वात्। शिष्टानि मज्जावसादीनि न भूरिशः आहारपचने युज्यन्ते इति तानि नात्र गृहीतानि।
3. स्वेदः - स्वेदनम् अग्न्युत्तापे । (पाकराजेश्वरः)
4. पचनम् -
पचनं जले। (पाकराजेश्वरः)
जलमुपयुज्य आहारपाकः पचनमुच्यते। यथा तण्डुलपाकः।
5. क्वथनम् - Kvathanaṃ
क्वथनं सिद्धद्रव्यरसग्रहणे । (पाकराजेश्वरः)
6. तान्दूरम् - Tāndūraṃ
तान्दूरं द्वारबद्धतप्तयन्त्रे । (पाकराजेश्वरः)
7. पुटपाकः - puṭapākah
पुटपाकः अधोर्द्ध्वाग्नितापे ज्ञेयः । (पाकराजेश्वरः)
अस्तु। एषु सप्तविधेषु कतिषु भवता प्रयत्नो विहितः?
एवं चिन्त्यते -
पाकशिशूनां - पाकविधिः 1, 4, 5 इत्येभिः सह अनुभवः स्यात्।
ततः ईषद्विशारदपाचकानां - पाकविधिः 2, 3, कदाचित् 6 च इत्येभिः सह अपि अनुभवः स्यात्।
सप्तिविधैरपि पाकैः यदि भवतः परिचयः स्यात्तर्हि भवान् उत्तमोत्तमः पाचकः स्यात्! 😊😊
एषु कति भवद्भिः यतिताः इति टिप्पण्या वदन्तु पाठकाः!
शुभभोजनम्! 😊
(चित्रयोनिः - https://www.shiveshskitchen.com/2013/05/different-methods-of-cooking.html)








Excellent description of the various methods of cooking... Looking forward to the next post.
ReplyDelete