Saturday, March 2, 2019

         
         पाको नाम किम्? भोजनं सर्वेषु हि गृहेषु निर्मीयतेे! किन्तु यत्र श्रेष्ठतया पाकः क्रियते, तत्रैव खलु "नलपाकः, भीमपाकः" इति कीर्त्यते! किं नाम पाकः, स च कतिधा इति संप्रति विचार्यते।

         पाक इत्यस्य शब्दकल्पद्रुमाभिहितं निर्वचनमित्थं भवति - "स्थालीमार्ज्जनाद्योदनपरीक्षान्तो व्यापारनिचयः पाकः" इति। भोजनभावनार्थम् अपेक्षितानां वस्तूनां सङ्ग्रहणसंमार्जनकर्तनादिभ्यः सम्यक्पाकलक्षणपरीक्षणं यावत् यद्यत्क्रियते, तत्सर्वं पाकशब्देऽन्तर्भवति। शब्दकल्पानुसारम् ओदन इति शब्दस्यार्थः अन्नं, भक्तमिति चोच्यते। अतः निर्वचनमिदं न केवलं तण्डुलविषयकम्, अपि च सर्वाहारद्रव्यविषयकमिति गृह्यते। अलसेभ्यः इदमुच्यते - मित्रादिभिः कर्तितान् शाकान् स्थाल्यां स्थापयित्वा, अग्निं प्रज्वाल्य दार्व्या आलोडनार्थं चेष्टामात्रकरणेन न तावत् पाचकाख्या भवन्तः इति। 😛
    
         अधुना कतिविधोऽयं पाकः इति दृश्यते। तत्रोच्यते पाकराजेश्वरेण - 

भर्ज्जनं तलनं स्वेदः पचनं क्वथनं तथा।
तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः॥ 
(पाकराजेश्वरः)

1. भर्जनम् - 

भर्ज्जनं केवलपात्रे । 
(पाकराजेश्वरः)

स्नेहद्रव्यं विना केवले पात्रे अग्निसहिते पचनं भर्जनमुच्यते। यथा रोटिका स्यात्। 

2. तलनम् - 


तलनं स्नेहद्रव्ये । 
(पाकराजेश्वरः)


स्नेह इत्यत्र प्रायोग्रहणे तैलं घृतं क्षीरं च गृह्यन्ते। परं चरकादिनिर्देशात् दधि, वसा, मांसं, मज्जा इत्यादिद्रव्याण्यपि स्नेहाख्यानि एव। परमत्र कानिचन एव उदाहरणत्वेन लिखितानि, आहारपचने नियोज्यत्वात्। अन्यानि स्नेहद्रव्याणि न तथा युज्यन्ते। दध्नः उष्णीकरणं न युक्तं भवति, तस्य स्वास्थ्यहानिकारकत्वात्। शिष्टानि मज्जावसादीनि न भूरिशः आहारपचने युज्यन्ते इति तानि नात्र गृहीतानि। 
3. स्वेदः - 

 स्वेदनम् अग्न्युत्तापे । 
(पाकराजेश्वरः)

 पात्रमाध्यमेन विना आहारस्य अप्रतीघातत्वेन अग्न्युपरि स्थापनं स्वेदनमुच्यते। यथा लोके फुलका इत्युच्यमानस्य आहारस्य पचनम्। 
4. पचनम् - 


पचनं जले। 
(पाकराजेश्वरः)

जलमुपयुज्य आहारपाकः पचनमुच्यते। यथा तण्डुलपाकः। 

5. क्वथनम् - Kvathanaṃ 


क्वथनं सिद्धद्रव्यरसग्रहणे ।  
(पाकराजेश्वरः)

सिद्धानां पक्तानां द्रव्याणाम् आहारपदार्थानां रसस्य सारस्य ग्रहणे अपहरणे इति यावत्। यथा खलु अद्य नाम्ना एव क्वथितमिति संस्कृते उच्यते, साम्बार इति तमिलभाषायाम्। 

6. तान्दूरम् - Tāndūraṃ 


तान्दूरं द्वारबद्धतप्तयन्त्रे । 
(पाकराजेश्वरः)

यन्त्रमिति अत्र आहारपाकपात्रम्। तस्यास्य पात्रस्य द्वारः बद्धः स्यात्। पात्रं च तप्तं स्यात्। निर्वचनमिदं तु microwave, baking oven, pressure cooker इत्यादिभिरपि संबद्धं दृश्यते। लोके "दम् बिरियाणी" इत्युच्यमानस्य आहारस्य विधिः कदाचित् तान्दूराख्यं स्यात्। संशयस्यास्य शोधनार्थं भवतामभिप्रायाः अपेक्षिताः।

7. पुटपाकः - puṭapākah

 पुटपाकः अधोर्द्ध्वाग्नितापे ज्ञेयः । 
(पाकराजेश्वरः)

द्रव्यस्य अधः उपरि च अग्निसंयोगात् यः पाकः क्रियते सः पुटपाकाख्यः। आयुर्वेदे तु विधेरस्य प्रयोगः औषधकल्पनायां युज्यते। तत्र तु औषधद्रव्याणि गोमये बध्द्वा अधस्तात् उपरिष्टाच्च अग्निसंयोगात् औषधं सिद्ध्यते। आहारपचने कथमस्य विधेः प्रयोगः क्रियते इत्यत्र वर्तते मम अज्ञानम्। ज्ञानामत्र अभिप्रायाः स्वागताः। 

अस्तु। एषु सप्तविधेषु कतिषु भवता प्रयत्नो विहितः?

एवं चिन्त्यते -

पाकशिशूनां - पाकविधिः 1, 4, 5 इत्येभिः सह अनुभवः स्यात्।
ततः ईषद्विशारदपाचकानां - पाकविधिः 2, 3, कदाचित् 6 च इत्येभिः सह अपि अनुभवः स्यात्।
सप्तिविधैरपि पाकैः यदि भवतः परिचयः स्यात्तर्हि भवान् उत्तमोत्तमः पाचकः स्यात्! 😊😊
एषु कति भवद्भिः यतिताः इति टिप्पण्या वदन्तु पाठकाः! 

शुभभोजनम्! 😊

(चित्रयोनिः - https://www.shiveshskitchen.com/2013/05/different-methods-of-cooking.html)



Posted by Dhwani On 7:46 PM 1 comment

1 comment:

  1. Excellent description of the various methods of cooking... Looking forward to the next post.

    ReplyDelete

Your thoughts are valuable! :-)

    Blogger news

    Blogroll

    About