Tuesday, January 15, 2019

आयुः कामयमानेन धर्मार्थसुखसाधनम्।
आयुर्वेदोपदेशेषु विधेयः परमादरः॥ (1.1.3)

पदच्छेदः

आयुः, कामयमानेन, धर्मार्थसुखसाधनम्।
आयुर्वेदोपदेशेषु, विधेयः, परमादरः॥

पदार्थः

आयुः - जीवितम्
कामयमानेन - इच्छता
धर्मार्थसुखसाधनम् - धर्मार्थकाममोक्षकारकम्
आयुर्वेदोपदेशेषु - आयुर्वेदेन उक्तेषु उपदेशेषु
विधेयः - धारणीयः
परमादरः - महान् सम्मानः

अन्वयः

धर्मार्थसुखसाधनम् आयुः कामयमानेन आयुर्वेदोपदेशेषु परमादरः विधेयः॥

व्याकरणम्

क. पदकृत्यम्

आयुः - सकारान्तः नपुंसकलिङ्गः आयुस्-शब्दः द्वितीया विभक्तिः एकवचनम्
कामयमानेन - काम + शानच्  => अकारान्तः पुंलिङ्गः कामयमान-शब्दः तृतीया विभक्तिः एकवचनम्
धर्मार्थसुखसाधनम् - अकारान्तः नपुंसकलिङ्गः धर्मार्थसुखसाधन-शब्दः द्वितीया विभक्तिः एकवचनम्
आयुर्वेदोपदेशेषु - अकारान्तः पुंलिङ्गः आयुर्वेदोपदेश-शब्दः सप्तमी विभक्तिः बहुवचनम्
विधेयः - वि-उपसर्गः, धा-धातुः, यत्-प्रत्ययः => विधेयः (पुंलिङ्गः)
परमादरः - अकारान्तः पुंलिङ्गः परमादर-शब्दः प्रथमा विभक्तिः एकवचनम्

ख. विग्रहवाक्यम्

धर्मार्थसुखसाधनम्

धर्मश्च अर्थश्च सुखञ्च धर्मार्थसुखानि (द्वन्द्वः)
तेषां (धर्मार्थसुखानां) साधनं - धर्मार्थसुखसाधनम् (षष्ठी तत्पुरुषः)
तत् - धर्मार्थसुखसाधनम्

आयुर्वेदोपदेशेषु

आयुर्वेदस्य उपदेशः - आयुर्वेदोपदेशः (षष्ठी तत्पुरुषः)
तेषु - आयुर्वेदोपदेशेषु

परमादरः

परमश्च असौ आदरश्च इति परमादरः (कर्मधारयः - विशेषणपूर्वपदः)

ग. विशेषणविशेष्यम्

अ. विशेष्यम् - आयुः, विशेषणम् - धर्मार्थसुखसाधनम्







Posted by Dhwani On 9:42 PM No comments

0 comments:

Post a Comment

Your thoughts are valuable! :-)

  • RSS
  • Delicious
  • Digg
  • Facebook
  • Twitter
  • Linkedin
  • Youtube

    Blogger news

    Blogroll

    About