Saturday, March 23, 2019


   
         "मम पुत्रस्य जन्मदिनम्" इति कथयन्ती स्मितमुखी समीपस्थायिनी 'कलावती' गृहस्य सीमाभित्त्या शारदायै किञ्चित्पात्रम् अयच्छत्। अभिनन्दनानि धन्यवादान् च व्याहार्य्य शारदा तेन पात्रेण सह गृहं प्राविशत्। गृहवासिनः सर्वे पात्रस्थं पायसं समास्वाद्य पीतवन्तः। शारदायाः पुत्र्यै सरस्वत्यै तत्पायसम् अत्यधिकं समरोचत। पीतपायसा प्रोत्फुल्लमनस्का सरस्वती तत्पात्रं प्रक्षालयितुं गतवती। सरस्वत्याः मनोरञ्जकं शैशवमुत्साहं प्रेम्णा पश्यन्ती आसीत् तस्याः मातामही। ततोऽनन्तरं प्रक्षालितं पात्रं हस्ते धरन्ती सरस्वती सीमाभित्तिं प्रति यावत् धावितुं समारभत तावत् मातामही सहसा उदक्रोशत्, "रिक्तं पात्रं मा देहि!" इति।
         मातामह्याः उत्क्रोशने खलु भारतपरम्परायाः महती काचित् रीतिः लीना तिष्ठति - "रिक्तपात्राऽप्रतिदानत्वप्रथा" इति। प्रथायाः अस्याः मूलं किमिति न वक्तुं शक्नुमः। किन्तु सत्यमेव रोचकेयं प्रथा वर्तते। आहारद्रव्यविनिमयस्तु तु बान्धवैः मित्रैः समीपस्थैर्वा सह बहुषु अवसरेषु क्रियते। उत्सवदिनं, जन्मदिनं, पुरस्कारप्रापणदिनमिति जीवने कतिपयावसराः आयान्त्येव। कदाचित् विनैवावसरान् नूतनाहारद्रव्यपचनवेलायामपि परस्परम् आहारविनिमयः क्रियते। विनिमयक्रियेयं दायकस्य महानसात् केनचित्पात्रेण क्रियते। ततः तत्पात्रस्वीकर्ता पुनः तत्पात्रं प्रतिदद्यादिति तु अविवरणीयमेव। तस्मिंश्च पात्रप्रतिदाने तत्पात्रं रिक्तं न भवेदिति रीतिः। तस्य पात्रस्य प्रतिपूरणार्थं पुनरपि स्वीकारकैः दायकेभ्यः किमपि आहारद्रव्यं स्थाप्येत। तदेतत् आहारद्रव्यं व्यर्थं न गच्छेत्, तत्स्वीकाराकाः तदाहारवस्तु प्रेम्ना गृह्णीयुरिति मनसि भावोत्पत्तिस्तु स्वाभाविकी एव।  पात्रप्रतिदानार्थं केनाहारद्रव्येण तस्य पात्रस्य पूरणं क्रियेत इति विषये किञ्चिदालोचनं तत्रापेक्षितम्। तत्काले च पात्रर्णी भोजनादिविषयेषु पात्रदस्य इच्छानिच्छाः, स्वास्थ्यस्थितिः इत्यादिविषयान् मनसिकृत्य किमपि आहारद्रव्यं पचेत्। अनेन क्रियाक्रमेण उभयोः कुटुम्बयोः प्रेम वर्धते। नैतावदेव, अपि च पाकक्रियायां रुचिरपि वर्धेत। एवं परस्परपक्षयोः रुच्यरुच्यादि मनसिकृत्य यदा पकः क्रियते, ततः तद्विनिमयश्च क्रियते, तदा खलु तत्र वातावरणमेव प्रेममयम् ऊर्जायुक्तं च परिवर्तेत।
         परम्परयाऽनया न केवलं भोजनभावः पाकभावो वा भण्यते। अपि तु सामान्यतया "समता" नाम केति विव्रियते। येन आहारपूर्णं पात्रं दत्तं, तस्मै रिक्तं पात्रं न दीयेतेति नियमः। तथैव खलु येन प्रेम दत्तं, तस्मै कठोरता न देया, प्रेम एव देयम्। येन दया दत्ता तस्मै आदरः देयः, न अनादरः। यो यो यद्यद्ददाति तं तं तत्तद्योग्यं वस्तु प्रतिदीयेतेति भावः। न खलु पायसपूर्णपात्रदायकाय पुनः पायसमेव दीयेतेति नियमः। पायसदायकाय कलवतीकुटुम्बाय रोचकं यत्किमपि आहारवस्तु शारदाकुटुम्बेन दातुं शक्यम्। विद्या येन गुरुणा दत्ता, छात्रः तस्मै न केवलं शुल्कं दद्यात्, अपि च तत्तुल्यम् आदरमपि। यत्र यत्र तु साक्षात्तुलनां न वस्तुभिः कर्तुं शक्यते, तत्र नूनं भाव एव महान्। ननु धर्मार्थकाममोक्षसाधकविद्या न कदाचित् ईषच्छुल्केन समतामियात्। तत्रैव शुल्केन सह आदरः, आचार्य्यसेवा इत्यन्ये भावान् युङ्क्ते शिष्यः। यत्र तु शुल्कमात्रं दीयते, तत्र पात्रं रिक्तमेव मन्येत।
         अनयैव समतादानपरम्परया भारतीयैः स्वराज्यमपि प्राप्तमिति कथने न कश्चिद्दोषो दृश्यते। ये किलास्माकं कलाचारादीन् प्रति अक्षान्तिं प्रदर्शितवन्तः, तान् सोढुं भारतीया अपि अक्षमाः सन्तः तेभ्यः अक्षान्तिमेव दत्तवन्तः।
         इयम् रिक्तपात्राऽप्रतिदानत्वपरम्परा न कदाचित् त्याज्याऽस्माभिः। बहिस्ताद्दर्शनेन यद्यपि लघुरयं विषयो भाति, तथापि निम्नालोचनेन तत्र गुप्ता विषया नैके दृश्यन्ते। सत्यं खलु एवमेव नैकाः सम्यक् कृता रीतयः सन्ति याः अस्माकं पूर्वजैः समालोच्य कल्पिताः स्युः। तासां संस्कृतानां संस्कृतीनां विषये आलोचनं विना न्यक्करणं तावत् सर्वथा असाधु एव।

🙏॥जयन्तु संस्कृता भारतरीतयः॥🙏

विषयेऽस्मिन् स्वटिप्पणीं दातुं मा विस्मरन्तु! 😊
भवतां सौकर्यार्थं रोचते इति गण्डोऽपि स्थापितः। 👍 😊
इति ध्वनेर्ध्वनिः। 
(चित्रमूलम् - https://www.in-between.org.uk/experiences/empty-vessel/)



Posted by Dhwani On 1:07 PM 2 comments READ FULL POST

       
 Have any of you heard of this practice before? It is considered offensive to return a vessel empty. If you're from Bharat, I'm sure you've heard of this. Inquisitive to learn the geographic spread  of this practice, I asked the seemingly all knowledgeable Google mama (mama is "uncle" in many Indian languages - just for clarification). And I learnt that this is a practice that has surprised some English people, but is common in some other parts of the world, such as Turkey, as per my very brief discussion with Google mama.
         On some online forums where this practice was discussed, there were some comments by people who were evidently ridiculed by this concept, such as, "I thought it was manners to return the dish clean", and "I thought we shouldn't be wasting food!" Well, these people have got the concept completely wrong, especially the second one.
         The very idea of not returning the vessel empty is to fill it with something the recipient might like to eat. In Bharat, it is very common to share sweets with neighbours, relatives and friends. It could be to share goodwill during festivals, birthdays or anniversaries, or to rejoice for an achievement by a family member, or to even celebrate the winning of their favourite party in the elections! Sometimes, it could be for no apparent occasion. People share food items even if they have successfully tried out a new recipe. A vessel with some food reaches another house, and the other house must not return it empty. In order to fill the vessel with another food item, the recipient essentially spends time to think about the likes and dislikes, culture, and even the health conditions of the family that gave the vessel. After weighing all of this, they cook something delicious, something that they feel might be relished by them, and return them their vessel with this food. In modern days, where people don't have the interest or time for this whole procedure, people at least fill the vessel with chocolates or biscuits while returning the vessel. Thankfully, we haven't forgotten our roots to the extent to have begun to return the vessel empty.
         Just a superficial analysis of this practice would help us conclude that the concept behind this practice is to develop a friendly social relationship between two families. We get to know tastes, cultures, habits, choices, dietary requirements based on health and so many other minute yet essential details about members of the other family. Needless to say, it also improves cooking skills, to put it in modern terms, "personalised or customised" cooking skills. 😋
         A deeper analysis would tell us that this practice echoes the concept of equality. It is rude to return a vessel empty, when you received it with sweets, love, care and goodwill. You need to return the same values. To a parent or teacher who taught you so many lessons for life, you cannot return any amount of money to equalise it - you cannot, no matter what. Hence, we add values such as "respect" in return. We return love for love, respect for respect, gratitude, blessings or heart felt good wishes for help, honesty for honesty ....and intolerance for intolerance. The last of this list is to emphasise that it is this very idea of "equality" rooted innately in our hearts, that helped us wade our way through the British rule and snatch our freedom from them. Now it might blow you away if I tell you that not returning the vessel empty has got something to do with the freedom struggle. But it all makes sense if you think of it this way - we always return exactly what we get.

Don't forget to drop a comment. 👇
I've also added a "like" button for your ease. 👍
(If the "like" button is not visible to you, consider viewing the web version of this page if you are viewing this on your mobile phone.)
Thank you so much for your time and stay tuned for more! 😊😊

(Picture source: https://www.in-between.org.uk/experiences/empty-vessel/)



Posted by Dhwani On 11:53 AM 9 comments READ FULL POST

Saturday, March 2, 2019

         
         पाको नाम किम्? भोजनं सर्वेषु हि गृहेषु निर्मीयतेे! किन्तु यत्र श्रेष्ठतया पाकः क्रियते, तत्रैव खलु "नलपाकः, भीमपाकः" इति कीर्त्यते! किं नाम पाकः, स च कतिधा इति संप्रति विचार्यते।

         पाक इत्यस्य शब्दकल्पद्रुमाभिहितं निर्वचनमित्थं भवति - "स्थालीमार्ज्जनाद्योदनपरीक्षान्तो व्यापारनिचयः पाकः" इति। भोजनभावनार्थम् अपेक्षितानां वस्तूनां सङ्ग्रहणसंमार्जनकर्तनादिभ्यः सम्यक्पाकलक्षणपरीक्षणं यावत् यद्यत्क्रियते, तत्सर्वं पाकशब्देऽन्तर्भवति। शब्दकल्पानुसारम् ओदन इति शब्दस्यार्थः अन्नं, भक्तमिति चोच्यते। अतः निर्वचनमिदं न केवलं तण्डुलविषयकम्, अपि च सर्वाहारद्रव्यविषयकमिति गृह्यते। अलसेभ्यः इदमुच्यते - मित्रादिभिः कर्तितान् शाकान् स्थाल्यां स्थापयित्वा, अग्निं प्रज्वाल्य दार्व्या आलोडनार्थं चेष्टामात्रकरणेन न तावत् पाचकाख्या भवन्तः इति। 😛
    
         अधुना कतिविधोऽयं पाकः इति दृश्यते। तत्रोच्यते पाकराजेश्वरेण - 

भर्ज्जनं तलनं स्वेदः पचनं क्वथनं तथा।
तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः॥ 
(पाकराजेश्वरः)

1. भर्जनम् - 

भर्ज्जनं केवलपात्रे । 
(पाकराजेश्वरः)

स्नेहद्रव्यं विना केवले पात्रे अग्निसहिते पचनं भर्जनमुच्यते। यथा रोटिका स्यात्। 

2. तलनम् - 


तलनं स्नेहद्रव्ये । 
(पाकराजेश्वरः)


स्नेह इत्यत्र प्रायोग्रहणे तैलं घृतं क्षीरं च गृह्यन्ते। परं चरकादिनिर्देशात् दधि, वसा, मांसं, मज्जा इत्यादिद्रव्याण्यपि स्नेहाख्यानि एव। परमत्र कानिचन एव उदाहरणत्वेन लिखितानि, आहारपचने नियोज्यत्वात्। अन्यानि स्नेहद्रव्याणि न तथा युज्यन्ते। दध्नः उष्णीकरणं न युक्तं भवति, तस्य स्वास्थ्यहानिकारकत्वात्। शिष्टानि मज्जावसादीनि न भूरिशः आहारपचने युज्यन्ते इति तानि नात्र गृहीतानि। 
3. स्वेदः - 

 स्वेदनम् अग्न्युत्तापे । 
(पाकराजेश्वरः)

 पात्रमाध्यमेन विना आहारस्य अप्रतीघातत्वेन अग्न्युपरि स्थापनं स्वेदनमुच्यते। यथा लोके फुलका इत्युच्यमानस्य आहारस्य पचनम्। 
4. पचनम् - 


पचनं जले। 
(पाकराजेश्वरः)

जलमुपयुज्य आहारपाकः पचनमुच्यते। यथा तण्डुलपाकः। 

5. क्वथनम् - Kvathanaṃ 


क्वथनं सिद्धद्रव्यरसग्रहणे ।  
(पाकराजेश्वरः)

सिद्धानां पक्तानां द्रव्याणाम् आहारपदार्थानां रसस्य सारस्य ग्रहणे अपहरणे इति यावत्। यथा खलु अद्य नाम्ना एव क्वथितमिति संस्कृते उच्यते, साम्बार इति तमिलभाषायाम्। 

6. तान्दूरम् - Tāndūraṃ 


तान्दूरं द्वारबद्धतप्तयन्त्रे । 
(पाकराजेश्वरः)

यन्त्रमिति अत्र आहारपाकपात्रम्। तस्यास्य पात्रस्य द्वारः बद्धः स्यात्। पात्रं च तप्तं स्यात्। निर्वचनमिदं तु microwave, baking oven, pressure cooker इत्यादिभिरपि संबद्धं दृश्यते। लोके "दम् बिरियाणी" इत्युच्यमानस्य आहारस्य विधिः कदाचित् तान्दूराख्यं स्यात्। संशयस्यास्य शोधनार्थं भवतामभिप्रायाः अपेक्षिताः।

7. पुटपाकः - puṭapākah

 पुटपाकः अधोर्द्ध्वाग्नितापे ज्ञेयः । 
(पाकराजेश्वरः)

द्रव्यस्य अधः उपरि च अग्निसंयोगात् यः पाकः क्रियते सः पुटपाकाख्यः। आयुर्वेदे तु विधेरस्य प्रयोगः औषधकल्पनायां युज्यते। तत्र तु औषधद्रव्याणि गोमये बध्द्वा अधस्तात् उपरिष्टाच्च अग्निसंयोगात् औषधं सिद्ध्यते। आहारपचने कथमस्य विधेः प्रयोगः क्रियते इत्यत्र वर्तते मम अज्ञानम्। ज्ञानामत्र अभिप्रायाः स्वागताः। 

अस्तु। एषु सप्तविधेषु कतिषु भवता प्रयत्नो विहितः?

एवं चिन्त्यते -

पाकशिशूनां - पाकविधिः 1, 4, 5 इत्येभिः सह अनुभवः स्यात्।
ततः ईषद्विशारदपाचकानां - पाकविधिः 2, 3, कदाचित् 6 च इत्येभिः सह अपि अनुभवः स्यात्।
सप्तिविधैरपि पाकैः यदि भवतः परिचयः स्यात्तर्हि भवान् उत्तमोत्तमः पाचकः स्यात्! 😊😊
एषु कति भवद्भिः यतिताः इति टिप्पण्या वदन्तु पाठकाः! 

शुभभोजनम्! 😊

(चित्रयोनिः - https://www.shiveshskitchen.com/2013/05/different-methods-of-cooking.html)



Posted by Dhwani On 7:46 PM 1 comment READ FULL POST
What is cooking? The art of making food..? But how is it classically defined? Here's a definition quoted by Śabdakalpadrumaḥ -  स्थालीमार्ज्जनाद्योदनपरीक्षान्तो व्यापारनिचयः पाकः। (Sthālīmārjjanādyodanaparīkṣānto vyāpāranicayaḥ pākaḥ)
All that we do from cleaning the vessels required till examining the cooked food (to check if it is ready) is called cooking. So for all the lazy bums out there, you can't say you've "cooked" until you have done all of those! Just frying something on the pan wouldn't make you a cook. 😉

What are the types of cooking? Boiling, frying, baking... you may begin to list. But for every science, there's a history. And thankfully, we have a few manuscripts of the science of cooking from the glorious past of Bharat. Here are the 7 ancient types of cooking, defined by Pākarājeśvaraḥ. 



भर्ज्जनं तलनं स्वेदः पचनं क्वथनं तथा।
तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः॥ 
(पाकराजेश्वरः)

Bharjjanaṃ talanaṃ svedaḥ pacanaṃ kvathanaṃ tathā.


Tāndūraṃ puṭapākaśca pākaḥ saptavidho mataḥ.. 
(Pākarājeśvaraḥ)

Let's decipher this verse to discover the 7 types of cooking with the definitions of Pākarājeśvaraḥ.

1. भर्जनम् - Bharjjanaṃ 


भर्ज्जनं केवलपात्रे । Bharjjanaṃ kevalapātre

Cooking food in a plain vessel is called Bharjanam. This could mean merely "cooking". Something like - making a roti.


2. तलनम् - Talanaṃ 


तलनं स्नेहद्रव्ये । Talanaṃ snehadravye

Talanam refers to cooking with a snehadravya - i.e., with ghee, oil, or technically even milk. There are other substances that are called "snehas" in Ayurveda, but I'm listing just these here as they're found to be quite apt in the context of daily cooking.

3. स्वेदः - Svedaḥ 


 स्वेदनम् अग्न्युत्तापे ।

 Svedanaṃ agnyuttāpe 
In cooking, svedanam refers to placing the food item directly over fire - something like a Phulka. It could even include methods such as grilling or barbecuing as they too are done with direct contact with heat (without the medium of a vessel). 
(Who else loves the corn cooked over fire sold in beaches with a dash of chilli powder and lemon juice?? 😋)

4. पचनम् - Pacanaṃ 


पचनं जले। Pacanaṃ jale

Cooking with water as a medium is referred to as Pacanam. The most typical example would be rice.

5. क्वथनम् - Kvathanaṃ 


क्वथनं सिद्धद्रव्यरसग्रहणे ।  

Kvathanaṃ siddhadravyarasagrahaṇe
Siddhadravya refers to ingredients that are being processed or cooked. Their "rasa", i.e., "essence" is being extracted (grahanam) by this method. This is possible by boiling. A typical example would be Sambar, a delicious traditional Indian liquid dish used as a side dish or part of a main course along with rice.

6. तान्दूरम् - Tāndūraṃ 


तान्दूरं द्वारबद्धतप्तयन्त्रे ।

Tāndūraṃ dvārabaddhataptayantre
This definition has a really interesting process described in a single word.
dvāra - door or opening
baddha - closed
tapta - heated
yantra - device
Cooking in a device (or a vessel) which is heated and whose mouth is closed is called Tāndūraṃ. 
After a little homework of seeing youtube videos for tanuduri roti. But I couldn't find a preparation with a vessel whose mouth is closed. The definition given here rather sounds like a microwave or baking oven to me!! If anyone has a clear idea of what this points to, please share it in the comments section below!

7. पुटपाकः - puṭapākah


 पुटपाकः अधोर्द्ध्वाग्नितापे ज्ञेयः ।

 Puṭapākaḥ adhorddhvāgnitāpe jñeyaḥ .
Puṭapākaḥ is a traditional method of processing mentioned in Ayurveda, widely used in making certain types of medicines. The definition here says - 
adhah = below
urdhwa = above
agni = fire
tāpa = heat
Heat is applied from both above and below the ingredients. Again, I do not know of a traditional cooking process in terms of food that uses this method. Your ideas are required. :-)

So, how many of these have you tried?
For the basic cook - it's probably just 1, 4 and 5
At the next level of enthusiasm, I would add 2, 3 and perhaps even 6
And if you have tried your hands on all the 7, you're probably a superchef!
Let me know in the comments below! :-)

Happy eating :-)

(Picture source: https://www.shiveshskitchen.com/2013/05/different-methods-of-cooking.html



Posted by Dhwani On 6:42 PM 1 comment READ FULL POST
  • RSS
  • Delicious
  • Digg
  • Facebook
  • Twitter
  • Linkedin
  • Youtube

    Blogger news

    Blogroll

    About