Wednesday, January 23, 2019

       भटूरा, माल्पूरी, दही पूरी, पानी पूरी इति विविधप्रदेशेषु विविधनामरूपैः पूरिकाः तद्भेदाश्च प्रसिद्धाः वर्तन्ते। परं, शास्त्रोक्तः पूरिकानिर्माणविधिः कः इति जिज्ञास्यते। प्राचीनग्रन्थेषु तत्र तत्र पूरिकानिर्देशः दृश्यते। तेष्वन्यतमः श्लोकः आदावत्र चर्च्यते। श्लोकोऽयं रघुनाथगणेशनवहस्तवर्येण लिखिते भोजनकुतूहलाख्यग्रन्थे (सन् १६७० AD) विद्यमानोऽस्ति। तत्रोच्यते -  

समितावेसने जीरहिङ्गुमारीचयोजिते।
घृताक्ते जलसंयुक्ते पीठस्योपरि वेल्लिते॥
घृतेन वाथ तैलेन भर्जिता पूरिका मता॥ (भोजनकुतूहलम्)

समिता - गेहूँ (Hindi), கோதுமை (Tamil), Wheat flour (English)
वेसनम् - बेसन (Hindi), கடலை மாவு (Tamil), Gram flour (English)
जीरः - - जीरा (Hindi), ஜீரகம் (Tamil), Cumin (English)
हिङ्गु - हीङ्ग (Hindi), பெருங்காயம் (Tamil), Asafoetida (English)
मरीचः - काली मिर्च (Hindi), மிளகு (Tamil), Black pepper (English)

       समिता (गोधूमचूर्णं) च वेसनं च समितावेसने इति श्लोके द्विवचनरूपत्वात् मात्रानुक्तत्वाच्च मात्रासमत्वं स्वीक्रियते। समितावेसने एकत्र गृहीत्वा ततः जीरकहिङ्गुमरिचानि योजनीयानि। घृताक्तमिदं मिश्रणं जलेन सह संमिश्र्य पिण्डीक्रियेत। ततः पीठस्योपरि वेल्लनमुक्तम्। वर्णनमिदं आधुनिकरोटिकाकरणे क्रियमाणं कार्यमेव दर्शयति। अत्र वृत्ताकारीकरणं नोक्तं, केवलं वेल्लनमेव उक्तमित्यतः आकारेषु स्वकल्पनाशक्तिनिर्धारणेऽपि सामर्थ्यं तिष्ठति, यथैव लोके पाकशालानिपुणाः स्वकल्पनामुपयुज्य आकारादिभेदान् कुर्वन्तः दृश्यन्ते। अतः पूरिकाकरणे त्रिकोणचतुष्कोणादिरचनाः अपि साध्याः स्युः॥ 🤔वेल्लनात् पश्चात् घृतेन तैलेन वा भर्जनमुक्तम्। प्रमाणं तु वदति - "भर्जनं केवलपात्रे, तलनं स्नेहद्रव्ये" (पाकराजेश्वरः) इति। अनेन तु निर्देशेन अद्य यावत् "deep fry" इत्युच्यमानं द्रव्यस्य स्नेहे निमज्ज्य पचनं नात्र युज्यते (तत्तु तलनाख्यं निर्वचनात्), अपि तु ईषत्स्नेहेन पात्रे पाकः निर्दिश्यते, यस्याधुनिके "shallow fry" इति नाम। सांप्रतिकप्रयोगे तु पूरिकानिर्माणे वेल्लनात् पश्चात् निम्नरूपेण तैले मज्जनं कृत्वा पच्यते। तन्नात्र ग्रन्थे निर्दिष्टं भाति। पूर्वोक्तद्रव्याणि उपयुज्य पिण्डीकृत्वा ततः वेल्लनं च कृत्वा केवलपात्रे घृतेन तैलेन वा भर्जनमेवात्र निर्दिष्टं वर्तते। 

       अस्मात् ग्रन्थात् प्रायः शतवर्षप्राचीने भावमिश्ररचिते भावप्रकाशाख्यग्रन्थे पूरिकानिर्देशः लभ्यते। तद्यथा - 

माषाणां पिष्टिकां युञ्ज्याल्लवणार्द्रकहिङ्गुभिः । 
तया पिष्टिकया पूर्णा समिता कृतपोलिका । 
ततस्तैले विपक्वा सा पूरिका कथिता बुधैः ॥ (भा.प्र.)

       अत्र तु समितावेसने नोक्ते, अपि तु माषाः निर्दिष्टाः। माषाणां पिष्टिकां (पिण्डं) कृत्वा, ततः लवणम् (भेदानुक्तत्वात् सैन्धवग्रहणम्) आर्द्रकं हिङ्गु च योजयित्वा मिश्रणं क्रियते। पिष्टिकामिमां समितायाः पूरणमुक्तम्। अस्यार्थः - आदौ समितां जलेन तैलेन वा संमिश्र्य पिण्डं रचनीयम्। ततः माषादिद्रव्यपिष्टिकया समितापिण्डं पूरणीयम्। ततः "पोलिका" (रोटिका - अग्रिमे लेखने दर्शयिष्यते) कल्पनीया। ततः तैलेन पाकः उक्तः। अत्र कीदृशः पाकः इति न दर्शितम्। 
अस्याः पूरिकाया गुणा यथा - 

रुच्या स्वाद्बी गुरुः स्निग्धा वातपित्तास्रदूषिका । 
चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी ॥ 
तथैव घृतपक्वापि चक्षुष्या रक्तपित्तहृत् ॥ (भा.प्र.)

       सैषा रुच्या रुचये हितं, स्वाद्वी मधुररसपाकयुक्ता, गुरुगुणयुक्ता, वातपित्तरक्तदूषिका, नेत्रहा, पाके उष्णा वातहरा च उक्ता। तथैव घृतपक्वापि इति दर्शनात् पूर्वनिर्देशः तैलपक्वानिमित्तः सिद्धः। या तु पूरिका घृतपक्वा सा चक्षुष्या चक्षुषे हिता, रक्तपित्तहृच्चोक्ता। 
भावप्रकाशः खलु वैद्यशास्त्रग्रन्थः। अतः गुणदोषतुलनां कृत्वा वैद्यैः आतुरेभ्यः योजनीयेयं पूरिका। अवैद्यैरपि चेदियं पूरिका कल्पनीया, तर्हि स्वदेहस्थित्यवगमनात् पश्चादेव पाकः आरभणीयः। कथञ्चिदपि घृपक्वेयं पूरिका तु देहहितायैव दृश्यते। 

हारीतेऽपि पूरिकागुणाः दत्ताः। तद्यथा - 

पूरिका घृतपूरन्तु त्रिदोषशमनं परम्। 
वृष्यं संबृहणं स्वादु क्षतक्षयनिवारणम् ।। (हारीतः)

       हारीतः खलु अग्निवेशकालः। अतः अग्निवेशतन्त्रस्य (चरकसंहितायाः) कालेन सह हारीतसंहितायाः अपि कालः समानः एव। अत्रापि घृतपक्वपूरिकामुद्दिश्य लिख्यते यत् - सैषा पूरिका वृष्या वृषणाय हिता, बृंहणी सन्तर्पणी, मधुररसपाका, क्षतक्षयहरी भवतीति। अत्र पूरिकायाः घृतपूरमिति नाम पर्यायत्वेन उक्तम्। तदेव घृतपूरमिति नाम सुश्रुतेनापि अनन्तवातचिकित्साप्रसङ्गे लिखितं दृश्यते। 

       अत्र चर्चितेषु श्लोकेषु आदौ निर्दिष्टः श्लोकः भोजनकुतूहलतः भवति, यश्च ग्रन्थः आहारद्रव्यप्रधानः दृश्यते, न तु भवप्रकाशहारीतसंहितासुश्रुतसंहितावत् औषधप्रधानः। अतः भोजनकुतूहलविधिरेव सामान्यतया पाके प्रयोक्तव्यः स्यात्। अपरं निर्दिष्टः माषादियुक्तः योगः विचारपूर्वकप्रयोगापेक्षी भाति। 

       तैलस्थाने घृतं प्रयुज्य तलनस्थाने भर्जनं च कृत्वा पाकोत्सुकाः परम्पराजिगीषाश्च साक्षान्महानसानुभवं टिप्पणीरूपेण सूचयन्तु। विषयेऽस्मिन् अवगमने रिक्तस्थानानि पूरयितुं भवतां पक्षतः उत्तराणि अभिप्रायादीनि च अत्यावश्यकानि सन्ति।

इतोऽप्यत्र एवमेव पारम्परिकपाकविधयः दर्शयिष्यन्ते।
अग्रे - रोटिका!
टिप्पणीं दातुं मा विस्मरन्तु। 😊
॥शम्॥

(चित्रमूलम् - happyeating.com)



Posted by Dhwani On 6:22 PM No comments READ FULL POST

Tuesday, January 22, 2019

परिश्रमो मिताहारो भूगतावश्विनीसुतौ।
तावनादृत्य नैवाहं वैद्यमन्यं समाश्रये॥ (ऐतरेयब्राह्मणम्)

             अश्विनीकुमारौ देवभिषजौ उच्येते। देवलोके जायमानानां रोगाणां तैवेव प्रतिबन्धकौ निवारकौ च॥ वैद्यः खलु त्रिकालवेदनाहरणे योग्यः उच्यते। उक्तं हि चरके - "चिकित्सति भिषक् सर्वास्रिकाला वेदना इति॥ (चरकसंहिता - शारीरस्थानम् - १)" तत्र त्रिकालरोगचिकित्सायां युक्तौ परिश्रममिताहारौ भूगतौ अश्विनीसुतौ उच्येते। रोगाणां प्रादुर्भावात् प्राक्कालचिकित्सा, प्रादुर्भावकालचिकित्सा, पश्चाच्चिकित्सा (रोगानुत्पत्त्यर्थम्) इति कर्मत्रयमिदं परिश्रमेण मिताहारेण च मात्रेण साध्या इत्यतः भूगताश्विनीसुतसंज्ञा। तौ भूगतावश्विनीसुतौ परिश्रममिताहाराख्यौ अनादृत्य अन्यवैद्यशरणं नापेक्षितमिति भावः॥
             आहारस्तु सर्वैरेव क्रियते एव। तत्र कथम् आहारः एव वैद्यरूपेण वर्तनीयः चेत् कीदृशः आहारः सद्गुणयुक्तः इति अवगन्तव्यः। तदर्थं च आहारविषये अस्माकं प्राचीनग्रन्थकथनानि अवलोकनीयानि सन्ति, तदनुगुणं च प्रतिदिनपाकविधिः भावनीयः। वैद्यरूपमाहारमवगन्तुं जालस्थानेऽस्मिन् लघुः प्रयत्नः क्रियते। प्रयत्नेऽस्मिन् विदुषां मार्गावबोधनं प्रार्थितम्। अत्र प्रदर्श्यमानाः पाकविधयः प्रायेण ग्रन्थौद्धृताः इत्यतः पाकशालायां तेषां साक्षात्पाकप्रयत्ने निर्धारणीयः, पठितॄणामत्र उत्साहः अपेक्षितः॥ 
॥शम्॥



Posted by Dhwani On 12:13 PM No comments READ FULL POST

Friday, January 18, 2019

Loved by almost every Indian and feared for health reasons by almost everyone - "Puri", a lip smacking Indian dish popularly served with a classical "Masal", is what has been chosen to begin this series on "Traditional cooking" with. 
The Puri that is made in our place is usually made of wheat flour which is rolled into a circle and deep fried in oil and served with "Masal" rich with potato with a tinge of lemon juice (detailed recipe is not elaborated here). Apart from this, there are so many variants of this dish in various parts of our country, such as Bhatoora, Bhedvi, Thunka Puri, Malpuri, Dahi Puri, Pani Puri and.... the list goes on. But what is the real recipe of Poori? 
Sanskrit reference is found in a text called Bhojanakutūhalam, written by Raghunatha Ganesa Navahasta in 1670 AD. Of course, there are earlier references. But the verse in this text is lucid and descriptive of the recipe. It reads:

समितावेसने जीरहिङ्गुमारीचयोजिते।
घृताक्ते जलसंयुक्ते पीठस्योपरि वेल्लिते॥
घृतेन वाथ तैलेन भर्जिता पूरिका मता॥ (भोजनकुतूहलम्)

samitāvesane jīrahiṅgumārīcayojite.


ghṛtākte jalasaṃyukte pīṭhasyopari vellite..

ghṛtena vātha tailena bharjitā pūrikā matā.. (bhojanakutūhalam)

Let us analyse the above verse to learn the actual recipe.

Samitā: Godhūma - गेहूँ (Hindi), கோதுமை (Tamil), Wheat flour (English)
Vesan: बेसन (Hindi), கடலை மாவு (Tamil), Gram flour (English)
Jeera: Jeerakam - जीरा (Hindi), ஜீரகம் (Tamil), Cumin (English)
Hiṅgu: हीङ्ग (Hindi), பெருங்காயம் (Tamil), Asafoetida (English)
Marīca: काली मिर्च (Hindi), மிளகு (Tamil), Black pepper (English)
Yojite: Mixed/added
Ghṛtākte: Smeared with  ghee
Jalasaṃyukte: Mixed with water
Pīṭhasyopari vellite: Rolled over a plank (a solid, flat surface)
Ghṛtena vātha tailena bharjitā: Fried with ghee or oil
Pūrikā matā: Is called Purika

Wheat flour and gram flour are mentioned in dual number (Dvivacanam), which suggests that they should be added in equal quantity as it goes usually in Ayurvedic descriptions. To this mixture of equal quantity of wheat flour and gram flour, cumin, asafoetida and black pepper are added. This is mixed into a bolus with water and a little amount of ghee. This is rolled into a circle (though shape is not directly mentioned - perhaps it could be rolled into other shapes as well, as chefs normally innovate) and fried with either ghee or oil. 

NOTE: Contrary to the popular practice, this recepie does not emphasise deep frying. As per the reference from "Pakarajeswarah", the word bharjanam mentioned above refers to just cooking it on the pan with a little amount of ghee/oil. The word तलनम् (talanam) only refers to deep frying, which is NOT the word used here. Hence, the purika mentioned here is to be prepared similar to roti being cooked on a pan with little ghee or oil. 

Another noteworthy reference is that by Bhāvamisra. His book "Bhāvaprakāsa" is believed to be of the 16th century, a century prior to the above text. He writes:

माषाणां पिष्टिकां युञ्ज्याल्लवणार्द्रकहिङ्गुभिः । 
तया पिष्टिकया पूर्णा समिता कृतपोलिका । 
ततस्तैले विपक्वा सा पूरिका कथिता बुधैः ॥ (भा.प्र.)

māṣāṇāṃ piṣṭikāṃ yuñjyāllavaṇārdrakahiṅgubhiḥ . 
tayā piṣṭikayā pūrṇā samitā kṛtapolikā . 
tatastaile vipakvā sā pūrikā kathitā budhaiḥ ..

Here, the use of black gram is described instead of wheat flour or gram flour. According to this recipe, a bolus of black gram is initially made. Since no liquid for mixing is mentioned, it is assumed to be water, as it is done usually in Ayurvedic study. To this bolus, salt (rock salt), fresh ginger (Adrak in hindi, inji in tamil) and asafoetida are added. This bolus is stuffed into wheat flour (i.e., Wheat flour is initially to be made into a dough, into which the black gram flour with salt, ginger and asafoetida is stuffed later). This is then made into a "Polika", i.e., rolled into a circle like "Roti" or "Chapathi" (coming soon!). This is then "cooked" with oil. This is "Purika" described in Bhavaprakasa, an Ayurvedic text. The following is described as its properties.

रुच्या स्वाद्बी गुरुः स्निग्धा वातपित्तास्रदूषिका । 
चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी ॥ 
तथैव घृतपक्वापि चक्षुष्या रक्तपित्तहृत् ॥ (भा.प्र.)

rucyā svādvī guruḥ snigdhā vātapittāsradūṣikā . 
cakṣustejoharī coṣṇā pāke vātavināśinī .. 
tathaiva ghṛtapakvāpi cakṣuṣyā raktapittahṛt ..

It is good for taste (enhances the taste buds and improves the faculty of taste), is sweet, heavy to digest and unctuous. However, it vitiates Vata, Pittam and Raktam, and harms the eyes. After digestion, it destroys Vata. When the same recipe is cooked with ghee, it is good for the eyes and pacifies Raktam and Pittam. The benefits and harmful effects have been described to enable the physician to prescribe in a personalised way to his/her patients or in general for people to choose for themselves the alterations they require.

Its properties are also described by Hārita as follows:

पूरिका घृतपूरन्तु त्रिदोषशमनं परम्। 


वृष्यं संबृहणं स्वादु क्षतक्षयनिवारणम् ।। (हारीतः)

pūrikā ghṛtapūrantu tridoṣaśamanaṃ param. 


vṛṣyaṃ saṃbṛhaṇaṃ svādu kṣatakṣayanivāraṇam ..

Harita Samhita is an ancient book written during the times of Agnivesa (same period as the original authorship of Charakasamhita), which dates back to several years BC. Referring to the Purika to be cooked with ghee, he has mentioned that it pacifies all three doshas (vata, pitta and kapha), and that it is good for the testicles (improves virility/sperm quality &/or quantity), nourishing, sweet (in vipaka) and cures emaciation.

The first reference mentioned here is from a text that seems to stress on "Ahara" (food or diet), as opposed to the next two texts which are Ayurvedic texts which lay emphasis on "Aushadha" (medicine) rather than food. So here's the final verdict: 
  • The first recipe mentioned in this post is the one which must ideally be followed for regular diet. The latter is advisable for people who are weak and emaciated and must be cooked with ghee. 
  • Enthusiasts are suggested to try the recipe and share experiences. It is key in bringing theory into practice! :-)
Stay tuned for more such recipes.
Upcoming next: Traditional roti!
Don't forget to drop a comment! :-)
Happy eating!


(Picture source: hungryforever.com)



Posted by Dhwani On 6:57 PM 6 comments READ FULL POST
रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान्।
औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै॥

पदच्छेदः

रागादिरोगान्, सततानुषक्तान्, अशेषकायप्रसृतान्, अशेषान्।
औत्सुक्यमोहारतिदान्, जघान, यः, अपूर्ववैद्याय, नमः. अस्तु, तस्मै॥

पदार्थः

रागादिरोगान् - रागद्वेषलोभप्रभृतिरोगान्
सततानुषक्तान् - सर्वदा प्रसृतान्
अशेषकायप्रसृतान् - सर्वदेहव्याप्तान्
अशेषान् - सर्वान्
औत्सुक्यमोहारतिदान् - औत्सुक्यमोहप्रभृत्युत्पादकान्
जघान - हृतवान्
अपूर्ववैद्याय - स्वप्रकारे प्रथमाय भिषजे
नमः अस्तु - वन्दनं भवतु

अन्वयः

अशेषकायप्रसृतान् सततानुषक्तान् औत्सुक्यमोहारतिदान् अशेषान् रागादिरोगान् यः जघान, तस्मै अपूर्ववैद्याय नमः अस्तु॥

व्याकरणम्

क. पदकृत्यम्

अशेषकायप्रसृतान् - अकारान्तः पुंलिङ्गः अशेषकायप्रसृतशब्दः द्वितीया विभक्तिः बहुवचनम्
सततानुषक्तान् - अकारान्तः पुंलिङ्गः सततानुषक्तशब्दः द्वितीया विभक्तिः बहुवचनम्
औत्सुक्यमोहारतिदान् - अकारान्तः पुंलिङ्गः औत्सुक्यमोहारतिदशब्दः द्वितीया विभक्तिः बहुवचनम्
अशेषान् - अकारान्तः पुंलिङ्गः अशेष-शब्दः द्वितीया विभक्तिः बहुवचनम्
रागादिरोगान् - अकारान्तः पुंलिङ्गः रागादिरोगशब्दः द्वितीया विभक्तिः बहुवचनम्
यः - तकारान्तः पुंलिङ्गः यत् शब्दः प्रथमा विभक्तिः एकवचनम्
जघान - हन् धातुः - लिट् - प्रथमपुरुषः - एकवचनम्
तस्मै - तराकान्तः पुंलिङ्गः तत्-शब्दः चतुर्थी विभक्तिः एकवचनम्
अपूर्ववैद्याय - अकारान्तः पुंलिङ्गः अपूर्ववैद्य-शब्दः चतुर्थी विभक्तिः एकवचनम्
नमः - सकारान्तः नपुंसकलिङ्गः नमस्-शब्दः
अस्तु - अस् धातुः - लोट् - प्रथमपुरुषः - एकवचनम्

ख. विग्रहवाक्यम्

अशेषकायप्रसृतान्

(न शेषः अशेषः (नञ्))
अशेषश्च असौ कायश्चेति अशेषकायः (कर्मधारयः - विशेषणपूर्वपदः)
अशेषकाये प्रसृतः - अशेषकायप्रसृतः (सप्तमीतत्पुरुषः)
तान् - अशेषकायप्रसृतान्

सततानुषक्तान्

सततम् अनुषक्तः - सततानुषक्तः (कर्मधारयः - विशेषणपूर्वपदः)
तान् - सततानुषक्तान्

औत्सुक्यमोहारतिदान्

(उत्सुकस्य भावः औत्सुक्यम्, न रतिः अरतिः)
औत्सुक्यं च मोहश्च अरतिश्च - औत्सुक्यमोहारतयः (द्वन्द्वः)
औत्सुक्यमोहारतीः ददाति इति ओत्सुक्यमोहारतिदः
तान् - औत्सुक्यमोहारतिदान्

अशेषान्

न शेषः - अशेषः (नञ्)
तान् - अशेषान्

रागादिरोगान्

रागः आदिः यस्य सः - रागादिः (बहुव्रीहिः)
रागादिश्च असौ रोगश्च इति रागादिरोगः (कर्मधारयः, विशेषणपूर्वपदः)
तान् - रागादिरोगान्

अपूर्ववैद्याय

न पूर्वं विद्यते यस्य सः अपूर्वः (बहुव्रीहिः)
अपूर्वश्चासौ वैद्यश्च इति अपूर्ववैद्यः (कर्मधारयः - विशेषणपूर्वपदः)
तस्मै - अपूर्ववैद्याय

ग. विशेषणविशेष्यम्

अ. विशेष्यम् - रागादिरोगान्, विशेषणानि - अशेषकायप्रसृतान्, सततानुषक्तान्, अशेषान्, औत्सुक्यमोहारतिदान्
आ. विशेष्यम् - तस्मै, विशेषणम् - अपूर्ववैद्याय



Posted by Dhwani On 7:50 AM 2 comments READ FULL POST

Tuesday, January 15, 2019

Welcome to my new blog "samyak kṛtam". The name of the blog is made up of two Sanskrit words - "samyak" (सम्यक्), meaning "well" or "perfect" and "kṛtam" (कृतम्), meaning " done". Samyak kṛtam is the expansion of the word "saṃskṛtam" (popularly known today as "Sanskrit" among the general public). So, next time you want to appreciate someone for a good work, consider saying "samyak kṛtam", or even just "saṃskṛtam"! ;)
This blog is created with a vision of throwing light on aspects that are samyak kṛtam (well done or perfectly done) by our ancient descendants who walked the path of life before us, came up with solutions for problems their successors (we) might ever face in our lives.
When a little child injures a finger or struggles to open a box tightly closed, an elder person is approached by the child for help. Why do we forget to do that when we grow up and face bigger challenges? The mom who knew to deal with temper tantrums of our childhood is also capable of helping us with our "depression", " stress" or "anxiety" later in our lives. Afterall, she walked our path before we did. Likewise, be it any field of interest, we aren't doing anything newer than out ancestors did. One can accept this statement only if ancient texts of knowledge are familiarised with. Music, architecture, medicine or even rocket science - name it and you have it! By reasons known and unknown the advancements of the previous generations have been lost, but thankfully documented for us to refer (sometimes available as complete texts and sometimes as incomplete excerpts). But rest assured, all of today's problems have their solutions hidden in our ancient texts - be it in Sanskrit, Tamil or other languages. This is a humble attempt to bring out the samyak kṛtam aspects of (real) history of India (which I would prefer calling Bhāratam as you would find in my future posts), written in saṃskṛtam - for a better today and a brighter tomorrow.
Stay tuned!
Happy pongal/makar sankrānti. Let's shine bright under the sun of uttarāyaṇam (northern solstice) :-)



Posted by Dhwani On 9:55 PM No comments READ FULL POST
आयुः कामयमानेन धर्मार्थसुखसाधनम्।
आयुर्वेदोपदेशेषु विधेयः परमादरः॥ (1.1.3)

पदच्छेदः

आयुः, कामयमानेन, धर्मार्थसुखसाधनम्।
आयुर्वेदोपदेशेषु, विधेयः, परमादरः॥

पदार्थः

आयुः - जीवितम्
कामयमानेन - इच्छता
धर्मार्थसुखसाधनम् - धर्मार्थकाममोक्षकारकम्
आयुर्वेदोपदेशेषु - आयुर्वेदेन उक्तेषु उपदेशेषु
विधेयः - धारणीयः
परमादरः - महान् सम्मानः

अन्वयः

धर्मार्थसुखसाधनम् आयुः कामयमानेन आयुर्वेदोपदेशेषु परमादरः विधेयः॥

व्याकरणम्

क. पदकृत्यम्

आयुः - सकारान्तः नपुंसकलिङ्गः आयुस्-शब्दः द्वितीया विभक्तिः एकवचनम्
कामयमानेन - काम + शानच्  => अकारान्तः पुंलिङ्गः कामयमान-शब्दः तृतीया विभक्तिः एकवचनम्
धर्मार्थसुखसाधनम् - अकारान्तः नपुंसकलिङ्गः धर्मार्थसुखसाधन-शब्दः द्वितीया विभक्तिः एकवचनम्
आयुर्वेदोपदेशेषु - अकारान्तः पुंलिङ्गः आयुर्वेदोपदेश-शब्दः सप्तमी विभक्तिः बहुवचनम्
विधेयः - वि-उपसर्गः, धा-धातुः, यत्-प्रत्ययः => विधेयः (पुंलिङ्गः)
परमादरः - अकारान्तः पुंलिङ्गः परमादर-शब्दः प्रथमा विभक्तिः एकवचनम्

ख. विग्रहवाक्यम्

धर्मार्थसुखसाधनम्

धर्मश्च अर्थश्च सुखञ्च धर्मार्थसुखानि (द्वन्द्वः)
तेषां (धर्मार्थसुखानां) साधनं - धर्मार्थसुखसाधनम् (षष्ठी तत्पुरुषः)
तत् - धर्मार्थसुखसाधनम्

आयुर्वेदोपदेशेषु

आयुर्वेदस्य उपदेशः - आयुर्वेदोपदेशः (षष्ठी तत्पुरुषः)
तेषु - आयुर्वेदोपदेशेषु

परमादरः

परमश्च असौ आदरश्च इति परमादरः (कर्मधारयः - विशेषणपूर्वपदः)

ग. विशेषणविशेष्यम्

अ. विशेष्यम् - आयुः, विशेषणम् - धर्मार्थसुखसाधनम्







Posted by Dhwani On 9:42 PM No comments READ FULL POST
चरकः सुश्रुतश्चैव वाग्भटश्च तथाऽपरः।
मुख्याश्च संहिता वाच्यास्तिस्र एव युगे युगे॥ (हारीतः)

चरकसंहिता सुश्रुतसंहिता वाग्भटीयम् (अष्टाङ्गसङ्ग्रहः अष्टाङ्गहृदयं च (वा)) इति त्रयमेतत् आयुर्वेदमुख्यपाठ्यमुच्यते। तिसृषु एतासु संहितासु अष्टाङ्गहृदयाख्या नवीनतमा वर्तते। इयं संहिता आचार्येण वाग्भटेन (लघुवाग्भटः इत्युच्यमानेन) लिखिता भवति। 
सैषा संहिता पूर्णतया पद्यरूपेण रचिता वर्तते। अनेन च कारणेन अस्याध्ययनं, मनसीकरणं च सुलभतरं भवतीति बहूनामुपायमधिकृत्य सैव संहिता अस्मिन् जालस्थाने चर्चायै योजिता। अत्रत्य श्लोकानां पदच्छेदपदार्थान्वयव्याकरणरीत्या विभक्तीरणे अध्ययने च स्वल्पबुद्ध्याऽनया आयुर्वेदशिष्यया प्रयत्नः क्रियते। अयं प्रयत्नः मदृशानाम् आयुर्वेदसंस्कृतशिशूनां हिताय स्वाभ्यासाय च उद्दिष्टः। विदुषामत्र मार्गदर्शनं तत्र तत्र प्रार्थितम्। दोषान् टिप्पणीश्च सूचयन्तु इति याचे॥ 

॥शम्॥



Posted by Dhwani On 9:23 PM No comments READ FULL POST
नमस्ते! सम्यक् कृतं संस्कृतम्। प्राचीने भारतदेशे सर्वं संस्कृतमासीदेव इत्यत्र न संशयः। तत्र केचन एव अंशाः अद्य ग्रन्थादिषु लभ्यमानाः सन्तीति दुःखमयी स्थितिः। आधुनिकजीवने यथाशक्ति प्राचीनग्रन्थैः दर्शिताः सुष्ठु मार्गाः अवधारणीयाः एव। तत्र आयुर्वेदादिग्रन्थेषु दृश्यमानाः 'संस्कृत'विषयाः तत्रभवतां पुरस्सरे स्थापयिष्यन्तेऽस्मिन् जालस्थाने। यथेष्टं, यथाशक्ति च तान् विषयान् स्वजीवने योजयन्तु इति प्रार्थना, दोषाः टिप्पण्यश्च सन्ति चेत् सूचयन्तु इति च याञ्चा। 
॥शम्॥  



Posted by Dhwani On 8:17 PM 2 comments READ FULL POST
  • RSS
  • Delicious
  • Digg
  • Facebook
  • Twitter
  • Linkedin
  • Youtube

    Blogger news

    Blogroll

    About