चरकः सुश्रुतश्चैव वाग्भटश्च तथाऽपरः।
मुख्याश्च संहिता वाच्यास्तिस्र एव युगे युगे॥ (हारीतः)
चरकसंहिता सुश्रुतसंहिता वाग्भटीयम् (अष्टाङ्गसङ्ग्रहः अष्टाङ्गहृदयं च (वा)) इति त्रयमेतत् आयुर्वेदमुख्यपाठ्यमुच्यते। तिसृषु एतासु संहितासु अष्टाङ्गहृदयाख्या नवीनतमा वर्तते। इयं संहिता आचार्येण वाग्भटेन (लघुवाग्भटः इत्युच्यमानेन) लिखिता भवति।
सैषा संहिता पूर्णतया पद्यरूपेण रचिता वर्तते। अनेन च कारणेन अस्याध्ययनं, मनसीकरणं च सुलभतरं भवतीति बहूनामुपायमधिकृत्य सैव संहिता अस्मिन् जालस्थाने चर्चायै योजिता। अत्रत्य श्लोकानां पदच्छेदपदार्थान्वयव्याकरणरीत्या विभक्तीरणे अध्ययने च स्वल्पबुद्ध्याऽनया आयुर्वेदशिष्यया प्रयत्नः क्रियते। अयं प्रयत्नः मदृशानाम् आयुर्वेदसंस्कृतशिशूनां हिताय स्वाभ्यासाय च उद्दिष्टः। विदुषामत्र मार्गदर्शनं तत्र तत्र प्रार्थितम्। दोषान् टिप्पणीश्च सूचयन्तु इति याचे॥
॥शम्॥







0 comments:
Post a Comment
Your thoughts are valuable! :-)