पूरिकाचर्चावेलायां पोलिका इति पदमस्माभिर्दृष्टम्। तदिह विस्तीर्यते। पोली इति पदात् कन् प्रत्ययस्य ततश्च टाप् प्रत्ययस्य योगात् पोलिकाशब्दः (शब्दकल्पद्रुमः)। तत्र किं नाम पोलीति चेत् - पोलति महत्त्वं गच्छतीति पोली (शब्दकल्पद्रुमः). पोलिकेयं विस्फायते इति यावत्। अस्याः पोलिकायाः भावप्राकाशे एवं निर्देशः -
कुर्य्यात्समतियाऽतीव तन्वी पर्पटिका ततः।
तां खादेल्लप्सिकायुक्तां तस्यां मण्डकवद्गुणाः। (भावप्रकाशः)
समिता नाम गोधीमचूर्णमित्यस्माभिः पूर्वमपि दृष्टम्। समितया तन्वी पर्पटिका कार्या इत्युक्तः। पर्पटिकाकरणाय समितायाः पिण्डीकरणमनिवार्यमिति न पृथक्त्वेनोक्तम्। अतः गोधूमचूर्णमुपयुज्य तस्य पिण्डं कृत्वा, ततश्च तेन पिण्डेन तन्वी पर्पटिका क्रियते, पीठोपरि वेल्लनेन। तप्तके इमां पर्पटिकां स्थापयित्वा अस्याः स्वेदनं क्रियते। पोलति महत्त्वं गच्छतीति खलु पोलिका, अतः स्वेदनवेलायामस्याः पोलनं भवेदिति अनुक्तग्रहणम्।
अनया सह युक्तं खाद्यद्रव्यं लप्सिकेत्युच्यते। लप्सिका काचित् मधुरद्रव्या, यस्या वर्णनं वयमग्रे करिष्यामः। पोलिकायाः गुणाः मण्डकसमाः इत्युच्यते। मण्डकगुणाः एवात्र चर्च्यन्ते, न तस्य निर्माणविधिः, प्रसङ्गबाह्यत्वात्। मण्डकगुणा यथा -

मण्डको बृंहणो वृष्यो बल्यो रुचिकरो भृशम्।
पाकेऽपि मधुरो ग्राही लघुर्दोषत्रयापहः॥ (भावप्रकाशः)
मण्डकः बृंहणः वृषणाय हितः रुचवर्धकश्च भवति विपाके मधुरः, ग्राही, लघुः, वातपित्तकफहरश्च। तत्र ग्राही नाम - दीपनं पाचनं यत्स्यादुष्णत्वाद्द्रवशेषणम् इति शार्ङ्गधरेण उच्यते। यत्तु द्रव्यं द्रवशोषणं न तदेकान्तेन नित्यभोज्यं दृश्यते। किन्तु अनया पोलिकया सह योज्यं द्रव्यं लप्सिका नाम उक्तम्। लप्सिका तु स्निग्धा श्लेष्मला चोक्ता, नातः शोषिणी सा। लप्सिकया सह नित्यं पोलिकाभोजनमतः युक्तमेव दृश्यते। परमद्य प्रायः न किञ्चिन्मधुरद्रव्यं पोलिकयो सह युज्यते, अपि तु दाल, सबजी इत्याद्युच्यमानान्येव द्रव्याणि उपयुज्यन्ते। तैः सह ग्राहिण्याः अस्याः पोलिकायाः प्रयोगः कियान् युक्तः इति आलोचनीयोऽयं विषयः।
रोटिका इति पोलिकायाः एव संस्कृतरूपस्य नाम। तत्र द्रव्यादिभेदेन बहवो रोटिकाविधयः ग्रन्थेषूक्ताः। लप्सिका, रोटिका परेऽपि रोचका विषया अग्रे प्रदर्शयिष्यन्ते। तावच्छुभम्॥
रोटिका इति पोलिकायाः एव संस्कृतरूपस्य नाम। तत्र द्रव्यादिभेदेन बहवो रोटिकाविधयः ग्रन्थेषूक्ताः। लप्सिका, रोटिका परेऽपि रोचका विषया अग्रे प्रदर्शयिष्यन्ते। तावच्छुभम्॥
टिप्पणीर्दातुं मा विस्मरन्तु।
शुभभोजनम्।😋
शुभभोजनम्।😋
(चित्रमूलम् - पिण्टरस्ट् इति जालस्थानम्)

0 comments:
Post a Comment
Your thoughts are valuable! :-)