रागादिरोगान् सततानुषक्तानशेषकायप्रसृतानशेषान्।
औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै॥
पदच्छेदः
रागादिरोगान्, सततानुषक्तान्, अशेषकायप्रसृतान्, अशेषान्।
औत्सुक्यमोहारतिदान्, जघान, यः, अपूर्ववैद्याय, नमः. अस्तु, तस्मै॥
पदार्थः
रागादिरोगान् - रागद्वेषलोभप्रभृतिरोगान्
सततानुषक्तान् - सर्वदा प्रसृतान्
अशेषकायप्रसृतान् - सर्वदेहव्याप्तान्
अशेषान् - सर्वान्
औत्सुक्यमोहारतिदान् - औत्सुक्यमोहप्रभृत्युत्पादकान्
जघान - हृतवान्
अपूर्ववैद्याय - स्वप्रकारे प्रथमाय भिषजे
नमः अस्तु - वन्दनं भवतु
अन्वयः
अशेषकायप्रसृतान् सततानुषक्तान् औत्सुक्यमोहारतिदान् अशेषान् रागादिरोगान् यः जघान, तस्मै अपूर्ववैद्याय नमः अस्तु॥
व्याकरणम्
क. पदकृत्यम्
अशेषकायप्रसृतान् - अकारान्तः पुंलिङ्गः अशेषकायप्रसृतशब्दः द्वितीया विभक्तिः बहुवचनम्
सततानुषक्तान् - अकारान्तः पुंलिङ्गः सततानुषक्तशब्दः द्वितीया विभक्तिः बहुवचनम्
औत्सुक्यमोहारतिदान् - अकारान्तः पुंलिङ्गः औत्सुक्यमोहारतिदशब्दः द्वितीया विभक्तिः बहुवचनम्
अशेषान् - अकारान्तः पुंलिङ्गः अशेष-शब्दः द्वितीया विभक्तिः बहुवचनम्
रागादिरोगान् - अकारान्तः पुंलिङ्गः रागादिरोगशब्दः द्वितीया विभक्तिः बहुवचनम्
यः - तकारान्तः पुंलिङ्गः यत् शब्दः प्रथमा विभक्तिः एकवचनम्
जघान - हन् धातुः - लिट् - प्रथमपुरुषः - एकवचनम्
तस्मै - तराकान्तः पुंलिङ्गः तत्-शब्दः चतुर्थी विभक्तिः एकवचनम्
अपूर्ववैद्याय - अकारान्तः पुंलिङ्गः अपूर्ववैद्य-शब्दः चतुर्थी विभक्तिः एकवचनम्
नमः - सकारान्तः नपुंसकलिङ्गः नमस्-शब्दः
अस्तु - अस् धातुः - लोट् - प्रथमपुरुषः - एकवचनम्
ख. विग्रहवाक्यम्
अशेषकायप्रसृतान्
(न शेषः अशेषः (नञ्))
अशेषश्च असौ कायश्चेति अशेषकायः (कर्मधारयः - विशेषणपूर्वपदः)
अशेषश्च असौ कायश्चेति अशेषकायः (कर्मधारयः - विशेषणपूर्वपदः)
अशेषकाये प्रसृतः - अशेषकायप्रसृतः (सप्तमीतत्पुरुषः)
तान् - अशेषकायप्रसृतान्
सततानुषक्तान्
सततम् अनुषक्तः - सततानुषक्तः (कर्मधारयः - विशेषणपूर्वपदः)
तान् - सततानुषक्तान्
औत्सुक्यमोहारतिदान्
(उत्सुकस्य भावः औत्सुक्यम्, न रतिः अरतिः)
औत्सुक्यं च मोहश्च अरतिश्च - औत्सुक्यमोहारतयः (द्वन्द्वः)
औत्सुक्यमोहारतीः ददाति इति ओत्सुक्यमोहारतिदः
तान् - औत्सुक्यमोहारतिदान्
अशेषान्
न शेषः - अशेषः (नञ्)
तान् - अशेषान्
रागादिरोगान्
रागः आदिः यस्य सः - रागादिः (बहुव्रीहिः)
रागादिश्च असौ रोगश्च इति रागादिरोगः (कर्मधारयः, विशेषणपूर्वपदः)
तान् - रागादिरोगान्
अपूर्ववैद्याय
न पूर्वं विद्यते यस्य सः अपूर्वः (बहुव्रीहिः)
अपूर्वश्चासौ वैद्यश्च इति अपूर्ववैद्यः (कर्मधारयः - विशेषणपूर्वपदः)
तस्मै - अपूर्ववैद्याय
ग. विशेषणविशेष्यम्
अ. विशेष्यम् - रागादिरोगान्, विशेषणानि - अशेषकायप्रसृतान्, सततानुषक्तान्, अशेषान्, औत्सुक्यमोहारतिदान्
आ. विशेष्यम् - तस्मै, विशेषणम् - अपूर्ववैद्याय







Typo in पदकृत्यम् of सततानुषक्तान् (typed as सततानुषकातन्.
ReplyDeleteThank u sir.. have corrected it.
Delete