नमस्ते! सम्यक् कृतं संस्कृतम्। प्राचीने भारतदेशे सर्वं संस्कृतमासीदेव इत्यत्र न संशयः। तत्र केचन एव अंशाः अद्य ग्रन्थादिषु लभ्यमानाः सन्तीति दुःखमयी स्थितिः। आधुनिकजीवने यथाशक्ति प्राचीनग्रन्थैः दर्शिताः सुष्ठु मार्गाः अवधारणीयाः एव। तत्र आयुर्वेदादिग्रन्थेषु दृश्यमानाः 'संस्कृत'विषयाः तत्रभवतां पुरस्सरे स्थापयिष्यन्तेऽस्मिन् जालस्थाने। यथेष्टं, यथाशक्ति च तान् विषयान् स्वजीवने योजयन्तु इति प्रार्थना, दोषाः टिप्पण्यश्च सन्ति चेत् सूचयन्तु इति च याञ्चा।
॥शम्॥







समुपसर्गयुक्ताड्डुकृञ् करणे इति धातोः क्ते, "सम्परिभ्यां करोतौ भूषणे" इति भूषणार्थे सुट् । अतः संस्कृतमित्यस्य भूषितमित्यर्थः । भूषणार्थ एव समुपसर्गयुक्तकृञः क्ते सुड् विधीयते,न तु केवले सम्यक्कृतमित्यर्थे ।
ReplyDeleteसाधु महाभागाः। 🙏
Deleteपरं संस्कृतः पुरोडाशः, षोडश संस्काराः इत्यादीनि पदानि श्रूयन्ते कथम्? भूषणार्थात् ऋते भाषायाः संस्कृतम् इति नाम कुतः? अपरञ्च सङ्कृतमिति प्रयोगः न कुत्रापि दृष्टः। अत एवात्र मया संस्कृतम् इति प्रयुक्तमस्ति। ☺